Ganga Dussehra Stotram Sanskrit Lyrics गङ्गादशहरास्तोत्रम् – PDF Download

॥ गङ्गादशहरास्तोत्रम् ॥
*****************************
ॐ नमः शिवायै गङ्गायैशिवदायै नमो नमः।
नमस्ते विष्णुरूपिण्यैब्रह्ममूर्त्यै नमोऽस्तु ते॥१॥
नमस्ते रुद्ररूपिण्यैशाङ्कर्यै ते नमो नमः।
सर्वदेवस्वरूपिण्यैनमो भेषजमूर्तये॥२॥
सर्वस्य सर्वव्याधीनांभिषक्छ्रेष्ठ्यै नमोऽस्तु ते।
स्थास्नुजङ्गमसम्भूतविषहन्त्र्यैनमोऽस्तु ते॥३॥
संसारविषनाशिन्यैजीवनायै नमोऽस्तु ते।
तापत्रितयसंहन्त्र्यैप्राणेश्यै ते नमो नमः॥४॥
शान्तिसन्तानकारिण्यैनमस्ते शुद्धमूर्तये।
सर्वसंशुद्धिकारिण्यैनमः पापारिमूर्तये॥५॥
भुक्तिमुक्तिप्रदायिन्यैभद्रदायै नमो नमः।
भोगोपभोगदायिन्यैभोगवत्यै नमोऽस्तु ते॥६॥
मन्दाकिन्यै नमस्तेऽस्तुस्वर्गदायै नमो नमः।
नमस्त्रैलोक्यभूषायैत्रिपथायै नमो नमः॥७॥
नमस्त्रिशुक्लसंस्थायैक्षमावत्यै नमो नमः।
त्रिहुताशनसंस्थायैतेजोवत्यै नमो नमः॥८॥
नन्दायै लिङ्गधारिण्यैसुधाधारात्मने नमः।
नमस्ते विश्वमुख्यायैरेवत्यै ते नमो नमः॥९॥
बृहत्यै ते नमस्तेऽस्तुलोकधात्र्यै नमोऽस्तु ते।
नमस्ते विश्वमित्रायैनन्दिन्यै ते नमो नमः॥१०॥
पृथ्व्यै शिवामृतायै चसुवृषायै नमो नमः।
परापरशताढ्यायैतारायै ते नमो नमः॥११॥
पाशजालनिकृन्तिन्यैअभिन्नायै नमोऽस्तु ते।
शान्तायै च वरिष्ठायैवरदायै नमो नमः॥१२॥
उग्रायै सुखजग्ध्यै चसञ्जीवन्यै नमोऽस्तु ते।
ब्रह्मिष्ठायै ब्रह्मदायैदुरितघ्न्यै नमो नमः॥१३॥
प्रणतार्तिप्रभञ्जिन्यैजगन्मात्रे नमोऽस्तु ते।
सर्वापत्प्रतिपक्षायैमङ्गलायै नमो नमः॥१४॥
शरणागतदीनार्तपरित्राणपरायणे।
सर्वस्यार्तिहरे देविनारायणि नमोऽस्तु ते॥१५॥
निर्लेपायै दुर्गहन्त्र्यैदक्षायै ते नमो नमः।
परापरपरायै चगङ्गे निर्वाणदायिनि॥१६॥
गङ्गे ममाग्रतो भूयागङ्गे मे तिष्ठ पृष्ठतः।
गङ्गे मे पार्श्वयोरेधिगङ्गे त्वय्यस्तु मे स्थितिः॥१७॥
आदौ त्वमन्ते मध्येच सर्वं त्वं गाङ्गते शिवे।
त्वमेव मूलप्रकृतिस्त्वंपुमान् पर एव हि।
गङ्गे त्वं परमात्मा चशिवस्तुभ्यं नमः शिवे॥१८॥
य इदं पठते स्तोत्रंशृणुयाच्छूद्धयाऽपि यः।
दशधा मुच्यते पापैःकायवाक्चित्तसम्भवैः॥१९॥
रोगस्थो रोगतोमुच्येद्विपद्भ्यश्च विपद्यतः।
मुच्यते बन्धनाद् बद्धोभीतो भीतेः प्रमुच्यते॥२०॥
सर्वान्कामानवाप्नोतिप्रेत्य च त्रिदिवं व्रजेत्।
दिव्यं विमानमारुह्यदिव्यस्त्रीपरिवीजितः॥२१॥
गृहेऽपि लिखितं यस्यसदा तिष्ठति धारितम्।
नाग्निचौरभयं तस्यन सर्पादिभयं क्वचित्॥२२॥
ज्येष्ठे मासि सितेपक्षे दशमीहस्तसंयुता।
संहरेत् त्रिविधं पापंबुधवारेण संयुता॥२३॥
तस्यां दशम्यामेतच्चस्तोत्रं गङ्गाजले स्थितः।
यः पठेद्दशकृत्वस्तुदरिद्रो वापि चाक्षमः॥२४॥
सोऽपि तत्फलमाप्नोतिगङ्गां सम्पूज्य यत्नतः॥२५॥
॥ इति श्रीस्कन्दमहापुराणे काशीखण्डे ईश्वरकथितं गङ्गादशहरास्तोत्रं सम्पूर्णम् ॥
**********************

Ganga Dussehra Stotram Sanskrit Lyrics गङ्गादशहरास्तोत्रम् - PDF Download (3 downloads )












